Sukta 6.49
तन्नोऽहिर्बुध्न्यो अद्भिरर्कैस्तत्पर्वतस्तत्सविता चनो धात् । तदोषधीभिरभि रातिषाचो भगः पुरंधिर्जिन्वतु प्र राये ॥
तन्नोऽहि॑र्बु॒ध्न्यो॑ अ॒द्भिर॒र्कैस्तत्पर्व॑त॒स्तत्स॑वि॒ता चनो॑ धात् । तदोष॑धीभिर॒भि रा॑ति॒षाचो॒ भग॒: पुरं॑धिर्जिन्वतु॒ प्र रा॒ये ॥
tán no áhīr budhnyò adbʰír arkáiḥ tát párvatas tát savitā́ cano dhāt | tád oṣádhībhir abhí rāti-sā́co bhágaḥ púraṃdhir jinvatu prá rāyé ||
May the Serpent of the deep set that for us by the waters and by the hymns; may the Mountain set that; may Savitṛ also establish it for our delight. And with the healing plants, may Bhaga—together with Purandhi, the power of fulfilment—quicken us toward plenitude.
तत् । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । अ॒त्ऽभिः । अ॒र्कैः । तत् । पर्व॑तः । तत् । स॒वि॒ता । चनः॑ । धा॒त् । तत् । ओष॑धीभिः । अ॒भि । रा॒ति॒ऽसाचः॑ । भगः॑ । पुर॑म्ऽधिः । जि॒न्व॒तु॒ । प्र । रा॒ये ॥तत् । नः । अहिः । बुध्न्यः । अत्भिः । अर्कैः । तत् । पर्वतः । तत् । सविता । चनः । धात् । तत् । ओषधीभिः । अभि । रातिसाचः । भगः । पुरम्धिः । जिन्वतु । प्र । राये ॥tat | naḥ | ahiḥ | budhnyaḥ | at-bhiḥ | arkaiḥ | tat | parvataḥ | tat | savitā | canaḥ | dhāt | tat | oṣadhībhiḥ | abhi | rāti-sācaḥ | bhagaḥ | puram-dhiḥ | jinvatu | pra | rāye