Sukta 6.49
नु नो रयिं रथ्यं चर्षणिप्रां पुरुवीरं मह ऋतस्य गोपाम् । क्षयं दाताजरं येन जनान्त्स्पृधो अदेवीरभि च क्रमाम विश आदेवीरभ्यश्नवाम ॥
नु नो॑ र॒यिं र॒थ्यं॑ चर्षणि॒प्रां पु॑रु॒वीरं॑ म॒ह ऋ॒तस्य॑ गो॒पाम् । क्षयं॑ दाता॒जरं॒ येन॒ जना॒न्त्स्पृधो॒ अदे॑वीर॒भि च॒ क्रमा॑म॒ विश॒ आदे॑वीर॒भ्य१॒॑श्नवा॑म ॥
nú no rayíṃ rathyáṃ carṣaṇiprā́ṃ puruvī́raṃ mahá ṛtásya gopā́m | kṣáyaṃ dātā́jaram yéna jánān spṛ́dho ádevīr abhí ca kramāma víśa ā́devīr abhí aśnavāma ||
Now give us the plenitude that moves like a chariot, that leads the peoples, rich in heroic powers—great, a guardian of the Truth. Give a dwelling secure and undecaying, by which we may stride beyond the hostile forces that are without the gods, and may reach the communities aligned with the gods.
नु । नः॒ । र॒यिम् । र॒थ्य॑म् । च॒र्ष॒णि॒ऽप्राम् । पु॒रु॒ऽवीर॑म् । म॒हः । ऋ॒तस्य॑ । गो॒पाम् । क्षय॑म् । दा॒त॒ । अ॒जर॑म् । येन॑ । जना॑न् । स्पृधः॑ । अदे॑वीः । अ॒भि । च॒ । क्रमा॑म । विशः॑ । आदे॑वीः अ॒भि । अ॒श्नवा॑म ॥नु । नः । रयिम् । रथ्यम् । चर्षणिप्राम् । पुरुवीरम् । महः । ऋतस्य । गोपाम् । क्षयम् । दात । अजरम् । येन । जनान् । स्पृधः । अदेवीः । अभि । च । क्रमाम । विशः । आदेवीः अभि । अश्नवाम ॥nu | naḥ | rayim | rathyam | carṣaṇi-prām | puru-vīram | mahaḥ | ṛtasya | gopām | kṣayam | dāta | ajaram | yena | janān | spṛdhaḥ | adevīḥ | abhi | ca | kramāma | vi śaḥ | ādevīḥ abhi | aśnavāma