Sukta 6.49
यो रजांसि विममे पार्थिवानि त्रिश्चिद्विष्णुर्मनवे बाधिताय । तस्य ते शर्मन्नुपदद्यमाने राया मदेम तन्वा तना च ॥
यो रजां॑सि विम॒मे पार्थि॑वानि॒ त्रिश्चि॒द्विष्णु॒र्मन॑वे बाधि॒ताय॑ । तस्य॑ ते॒ शर्म॑न्नुपद॒द्यमा॑ने रा॒या म॑देम त॒न्वा॒३॒॑ तना॑ च ॥
yó rajā́ṃsi vi-mamé pārthivā́ni tríś cid víṣṇur mánave bādhitā́ya | tásya te śármann upa-dadyámāne rāyā́ madema tanvā́ tanā́ ca ||
He who measured out the earthly spaces—thrice, indeed, Vishnu—for Manu pressed by the adversary: in that your shelter, as it is being given to us, may we rejoice in the plenitude, in our embodied self and in our inmost being.
यः । रजां॑सि । वि॒ऽम॒मे । पार्थि॑वानि । त्रिः । चि॒त् । विष्णुः॑ । मन॑वे । बा॒धि॒ताय॑ । तस्य॑ । ते॒ । शर्म॑न् । उ॒प॒ऽद॒द्यमा॑ने । रा॒या । म॒दे॒म॒ । त॒न्वा॑ । तना॑ । च॒ ॥यः । रजांसि । विममे । पार्थिवानि । त्रिः । चित् । विष्णुः । मनवे । बाधिताय । तस्य । ते । शर्मन् । उपदद्यमाने । राया । मदेम । तन्वा । तना । च ॥yaḥ | rajāṃsi | vi-mame | pārthivāni | triḥ | cit | viṣṇuḥ | manave | bādhitāya | tasya | te | śarman | upa-dadyamāne | rāyā | madema | tanvā | tanā | ca