Sukta 6.49
आ युवानः कवयो यज्ञियासो मरुतो गन्त गृणतो वरस्याम् । अचित्रं चिद्धि जिन्वथा वृधन्त इत्था नक्षन्तो नरो अङ्गिरस्वत् ॥
आ यु॑वानः कवयो यज्ञियासो॒ मरु॑तो ग॒न्त गृ॑ण॒तो व॑र॒स्याम् । अ॒चि॒त्रं चि॒द्धि जिन्व॑था वृ॒धन्त॑ इ॒त्था नक्ष॑न्तो नरो अङ्गिर॒स्वत् ॥
ā́ yúvānaḥ kavayo yajñiyā́so máruto gántá gṛṇató varasyā́m | acitrám cíd dhi jínvathā vṛdhánta itthā́ nákṣanto naro aṅgirasvát ||
Come, O Maruts—young, seer-like, worthy of the offering—come to the excellent call of the singer. For you quicken even what is without light; you increase it, and thus you attain your goal, O heroic men, in the manner of the Angirases.
आ । यु॒वा॒नः॒ । क॒व॒यः॒ । य॒ज्ञि॒या॒सः॒ । मरु॑तः । ग॒न्त । गृ॒ण॒तः । व॒र॒स्याम् । अ॒चि॒त्रम् । चि॒त् । हि । जिन्व॑थ । वृ॒धन्तः॑ । इ॒त्था । नक्ष॑न्तः । न॒रः॒ । अ॒ङ्गि॒र॒स्वत् ॥आ । युवानः । कवयः । यज्ञियासः । मरुतः । गन्त । गृणतः । वरस्याम् । अचित्रम् । चित् । हि । जिन्वथ । वृधन्तः । इत्था । नक्षन्तः । नरः । अङ्गिरस्वत् ॥ā | yuvānaḥ | kavayaḥ | yajñiyāsaḥ | marutaḥ | ganta | gṛṇataḥ | varasyām | ac itram | cit | hi | jinvatha | vṛdhantaḥ | itthā | nakṣantaḥ | naraḥ | aṅgirasvat