Sukta 6.48
त्वं नश्चित्र ऊत्या वसो राधांसि चोदय । अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ॥
त्वं न॑श्चि॒त्र ऊ॒त्या वसो॒ राधां॑सि चोदय । अ॒स्य रा॒यस्त्वम॑ग्ने र॒थीर॑सि वि॒दा गा॒धं तु॒चे तु न॑: ॥
tváṃ naś citrá ūtyā vaso rā́dhāṃsi codaya | asyá rāyás tvám agne rathī́r asi vidā́ gā́dhaṃ túce tú naḥ ||
You, O Agni, luminous in thy help, impel for us the powers of fulfilment, O Vasu. Of this plenitude (rayi) thou art the charioteer; find for our striving a firm ford, a safe passage through the difficult movement.
त्वम् । नः॒ । चि॒त्रः । ऊ॒त्या । वसो॒ इति॑ । राधां॑सि । चो॒द॒य॒ । अ॒स्य । रा॒यः । त्वम् । अ॒ग्ने॒ । र॒थीः । अ॒सि॒ । वि॒दाः । गा॒धम् । तु॒चे । तु । नः॒ ॥त्वम् । नः । चित्रः । ऊत्या । वसो इति । राधांसि । चोदय । अस्य । रायः । त्वम् । अग्ने । रथीः । असि । विदाः । गाधम् । तुचे । तु । नः ॥tvam | naḥ | citraḥ | ūtyā | vaso iti | rādhāṃsi | codaya | asya | rāyaḥ | tvam | agne | rathīḥ | asi | vidāḥ | gādham | tuce | tu | naḥ