Sukta 6.48
विश्वासां गृहपतिर्विशामसि त्वमग्ने मानुषीणाम् । शतं पूर्भिर्यविष्ठ पाह्यंहसः समेद्धारं शतं हिमाः स्तोतृभ्यो ये च ददति ॥
विश्वा॑सां गृ॒हप॑तिर्वि॒शाम॑सि॒ त्वम॑ग्ने॒ मानु॑षीणाम् । श॒तं पू॒र्भिर्य॑विष्ठ पा॒ह्यंह॑सः समे॒द्धारं॑ श॒तं हिमा॑: स्तो॒तृभ्यो॒ ये च॒ दद॑ति ॥
viśvā́sāṃ gṛhápatiḥ viśā́m asi tvám agne mā́nuṣīṇām | śatáṃ pū́rbhir yaviṣṭha pā́hy áṃhasaḥ sameddhā́raṃ śatáṃ himā́ḥ stotṛ́bhyo yé ca dádati ||
You, O Agni, are the lord of the house for all the human clans. O youngest, with a hundred strongholds protect the one who kindles you from the crookedness; a hundred winters—protect the singers and those who give.
विश्वा॑साम् । गृ॒हऽप॑तिः । वि॒शाम् । अ॒सि॒ । त्वम् । अ॒ग्ने॒ । मानु॑षीणाम् । श॒तम् । पूः॒ऽभिः । य॒वि॒ष्ठ॒ । पा॒हि॒ । अंह॑सः । स॒म्ऽए॒द्धार॑म् । श॒तम् । हिमाः॑ । स्तो॒तृऽभ्यः॑ । ये । च॒ । दद॑ति ॥विश्वासाम् । गृहपतिः । विशाम् । असि । त्वम् । अग्ने । मानुषीणाम् । शतम् । पूःभिः । यविष्ठ । पाहि । अंहसः । सम्एद्धारम् । शतम् । हिमाः । स्तोतृभ्यः । ये । च । ददति ॥viśvāsām | gṛha-patiḥ | viśām | asi | tvam | agne | mānuṣīṇām | śatam | pūḥ-bhiḥ | yaviṣṭha | pāhi | aṃhasaḥ | sam-eddhāram | śatam | himāḥ | stotṛ-bhyaḥ | ye | ca | dadati