Sukta 6.48
पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः । अग्ने हेळांसि दैव्या युयोधि नोऽदेवानि ह्वरांसि च ॥
पर्षि॑ तो॒कं तन॑यं प॒र्तृभि॒ष्ट्वमद॑ब्धै॒रप्र॑युत्वभिः । अग्ने॒ हेळां॑सि॒ दैव्या॑ युयोधि॒ नोऽदे॑वानि॒ ह्वरां॑सि च ॥
párṣi tokáṃ tánayaṃ partṛ́bhiṣ tvám adabdháir áprayutvabhiḥ | agne héḷāṃsi daivyā́ yuyodhi no ’dévāni hvárāṃsi ca ||
Carry safely our child and our lineage by thy unfailing, unwithdrawing protectors. O Agni, ward off from us the divine smitings, and also the crooked hostile movements that are not of the gods.
पर्षि॑ । तो॒कम् । तन॑यम् । प॒र्तृऽभिः॑ । त्वम् । अद॑ब्धैः । अप्र॑युत्वऽभिः । अग्ने॑ । हेलां॑सि । दैव्या॑ । यु॒यो॒धि॒ । नः॒ । अदे॑वानि । ह्वरां॑सि । च॒ ॥पर्षि । तोकम् । तनयम् । पर्तृभिः । त्वम् । अदब्धैः । अप्रयुत्वभिः । अग्ने । हेलांसि । दैव्या । युयोधि । नः । अदेवानि । ह्वरांसि । च ॥parṣi | tokam | tanayam | partṛ-bhiḥ | tvam | adabdhaiḥ | aprayutva-bhiḥ | agne | helāṃsi | daivyā | yuyodhi | naḥ | adevāni | hvarāṃsi | ca