Sukta 6.48
बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा । भरद्वाजे समिधानो यविष्ठ्य रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि ॥
बृ॒हद्भि॑रग्ने अ॒र्चिभि॑: शु॒क्रेण॑ देव शो॒चिषा॑ । भ॒रद्वा॑जे समिधा॒नो य॑विष्ठ्य रे॒वन्न॑: शुक्र दीदिहि द्यु॒मत्पा॑वक दीदिहि ॥
bṛhád-bhir agne arcí-bhiḥ śukréṇa deva śocíṣā | bháradvāje samidhānó yaviṣṭhya reván naḥ śukra dīdihi dyumát pāvaka dīdihi ||
With your vast flames, O Agni, with your bright divine blaze—kindled among the Bharadvājas, O youngest—shine for us richly. O luminous one, shine; O radiant purifier, shine.
बृ॒हत्ऽभिः॑ । अ॒ग्ने॒ । अ॒र्चिऽभिः॑ । शु॒क्रेण॑ । दे॒व॒ । शो॒चिषा॑ । भ॒रत्ऽवा॑जे । स॒म्ऽइ॒धा॒नः । य॒वि॒ष्ठ्य॒ । रे॒वत् । नः॒ । शु॒क्र॒ । दी॒दि॒हि॒ । द्यु॒ऽमत् । पा॒व॒क॒ । दी॒दि॒हि॒ ॥बृहत्भिः । अग्ने । अर्चिभिः । शुक्रेण । देव । शोचिषा । भरत्वाजे । सम्इधानः । यविष्ठ्य । रेवत् । नः । शुक्र । दीदिहि । द्युमत् । पावक । दीदिहि ॥bṛhat-bhiḥ | agne | arci-bhiḥ | śukreṇa | deva | śociṣā | bharat-vāje | sam-idhānaḥ | yaviṣṭhya | revat | naḥ | śukra | dīdihi | dyu-mat | pāvaka | dīdihi