Sukta 6.48
आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि । तिरस्तमो ददृश ऊर्म्यास्वा श्यावास्वरुषो वृषा श्यावा अरुषो वृषा ॥
आ यः प॒प्रौ भा॒नुना॒ रोद॑सी उ॒भे धू॒मेन॑ धावते दि॒वि । ति॒रस्तमो॑ ददृश॒ ऊर्म्या॒स्वा श्या॒वास्व॑रु॒षो वृषा श्या॒वा अ॑रु॒षो वृषा॑ ॥
ā yáḥ papráu bhānúnā ródasī ubhé dhūména dhāvate diví | tirás támo dadṛśa ū́rmyāsv ā́ śyā́vāsv aruṣó vṛ́ṣā ā́ śyā́vā aruṣó vṛ́ṣā ||
He who has filled both Heaven and Earth with his radiance, who runs in the sky with his smoke—he is seen beyond the darkness. In the surging waves, in the dark currents, the Ruddy Bull appears, the Ruddy Bull amid the dark.
आ । यः । प॒प्रौ । भा॒नुना॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । धू॒मेन॑ । धा॒व॒ते॒ । दि॒वि । ति॒रः । तमः॑ । द॒दृ॒शे॒ । ऊर्म्या॑सु । आ । श्या॒वासु॑ । अ॒रु॒षः । वृषा॑ । आ । श्या॒वाः । अ॒रु॒षः । वृषा॑ ॥आ । यः । पप्रौ । भानुना । रोदसी इति । उभे इति । धूमेन । धावते । दिवि । तिरः । तमः । ददृशे । ऊर्म्यासु । आ । श्यावासु । अरुषः । वृषा । आ । श्यावाः । अरुषः । वृषा ॥ā | yaḥ | paprau | bhānunā | rodasī iti | ubhe iti | dhūmena | dhāvate | divi | tiraḥ | tamaḥ | dadṛśe | ūrmyāsu | ā | śyāvāsu | aruṣaḥ | vṛṣā | ā | śyāvāḥ | aruṣaḥ | vṛṣā