Sukta 6.48
यमापो अद्रयो वना गर्भमृतस्य पिप्रति । सहसा यो मथितो जायते नृभिः पृथिव्या अधि सानवि ॥
यमापो॒ अद्र॑यो॒ वना॒ गर्भ॑मृ॒तस्य॒ पिप्र॑ति । सह॑सा॒ यो म॑थि॒तो जाय॑ते॒ नृभि॑: पृथि॒व्या अधि॒ सान॑वि ॥
yám ā́po ádrayo vánā gárbham ṛtásya pípṛti | sáhasā yó mathitó jā́yate nṛ́bhiḥ pṛthivyā́ ádhi sā́navi ||
Him the Waters, the Stones, the Woods nourish as the embryo of the Truth. He who is born by force when churned by the human powers, is generated upon the ridge of Earth.
यम् । आपः॑ । अद्र॑यः । वना॑ । गर्भ॑म् । ऋ॒तस्य॑ । पिप्र॑ति । सह॑सा । यः । म॒थि॒तः । जाय॑ते । नृऽभिः॑ । पृ॒थि॒व्याः । अधि॑ । सान॑वि ॥यम् । आपः । अद्रयः । वना । गर्भम् । ऋतस्य । पिप्रति । सहसा । यः । मथितः । जायते । नृभिः । पृथिव्याः । अधि । सानवि ॥yam | āpaḥ | adrayaḥ | vanā | garbham | ṛtasya | piprati | sahasā | yaḥ | math itaḥ | jāyate | nṛ-bhiḥ | pṛthivyāḥ | adhi | sānavi