Sukta 6.48
वृषा ह्यग्ने अजरो महान्विभास्यर्चिषा । अजस्रेण शोचिषा शोशुचच्छुचे सुदीतिभिः सु दीदिहि ॥
वृषा॒ ह्य॑ग्ने अ॒जरो॑ म॒हान्वि॒भास्य॒र्चिषा॑ । अज॑स्रेण शो॒चिषा॒ शोशु॑चच्छुचे सुदी॒तिभि॒: सु दी॑दिहि ॥
vṛ́ṣā hí agne ajáro mahā́n vibhā́sy arciṣā́ | ájasreṇa śocíṣā śóśucac chuce sudītíbhīḥ sú dīdihi ||
Truly, O Agni, you are the mighty Bull, unaging; you shine out with your flame. With your unfailing blaze you burn ever more, O pure one; with your perfect kindlings blaze well in us.
वृषा॑ । हि । अ॒ग्ने॒ । अ॒जरः॑ । म॒हान् । वि॒ऽभासि॑ । अ॒र्चिषा॑ । अज॑स्रेण । शो॒चिषा॑ । शोशु॑चत् । शु॒चे॒ । सु॒दी॒तिऽभिः॑ । सु । दी॒दि॒हि॒ ॥वृषा । हि । अग्ने । अजरः । महान् । विभासि । अर्चिषा । अजस्रेण । शोचिषा । शोशुचत् । शुचे । सुदीतिभिः । सु । दीदिहि ॥vṛṣā | hi | agne | ajaraḥ | mahān | vi-bhāsi | arciṣā | ajasreṇa | śociṣā | śośucat | śuce | sudīti-bhiḥ | su | dīdihi