Sukta 6.48
ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये । भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनाम् ॥
ऊ॒र्जो नपा॑तं॒ स हि॒नायम॑स्म॒युर्दाशे॑म ह॒व्यदा॑तये । भुव॒द्वाजे॑ष्ववि॒ता भुव॑द्वृ॒ध उ॒त त्रा॒ता त॒नूना॑म् ॥
ūrjó nápātaṃ sá hinā́yam asmayúr dā́śema havyádātaye | bhúvad vā́jeṣv avitā́ bhúvad vṛdhá uta trātā́ tanū́nām ||
To the Son of Energy we would offer, urged on with an inward longing, for he is the giver of the oblation. May he become our helper in plenitudes of force, may he become our increaser, and also the protector of our embodied being.
ऊर्जः । नपा॑तम् । सः । हि॒न । अ॒यम् । अ॒स्म॒ऽयुः । दाशे॑म । ह॒व्यऽदा॑तये । भुव॑त् । वाजे॑षु । अ॒वि॒ता । भुव॑त् । वृ॒धः । उ॒त । त्रा॒ता । त॒नूना॑म् ॥ऊर्जः । नपातम् । सः । हिन । अयम् । अस्मयुः । दाशेम । हव्यदातये । भुवत् । वाजेषु । अविता । भुवत् । वृधः । उत । त्राता । तनूनाम् ॥ūrjaḥ | napātam | saḥ | hina | ayam | asma-yuḥ | dāśema | havya-dātaye | bhuvat | vājeṣu | avitā | bhuvat | vṛdhaḥ | uta | trātā | tanūnām