Sukta 6.48
सद्यश्चिद्यस्य चर्कृतिः परि द्यां देवो नैति सूर्यः । त्वेषं शवो दधिरे नाम यज्ञियं मरुतो वृत्रहं शवो ज्येष्ठं वृत्रहं शवः ॥
स॒द्यश्चि॒द्यस्य॑ चर्कृ॒तिः परि॒ द्यां दे॒वो नैति॒ सूर्य॑: । त्वे॒षं शवो॑ दधिरे॒ नाम॑ य॒ज्ञियं॑ म॒रुतो॑ वृत्र॒हं शवो॒ ज्येष्ठं॑ वृत्र॒हं शव॑: ॥
sadyáś cid yásya carkṛtíḥ pári dyā́m devó ná eti sū́ryaḥ | tvéṣaṃ śávo dadhire nā́ma yajñíyaṃ marúto vṛtraháṃ śávo jyéṣṭhaṃ vṛtraháṃ śávaḥ ||
Swift is that whirling energy—like the Sun-god who circles the heaven without pause. The Maruts have set in themselves a fierce power, a name meet for sacrifice: the Vṛtra-slaying force, the eldest and foremost Vṛtra-slaying might.
स॒द्यः । चि॒त् । यस्य॑ । च॒र्कृ॒तिः । परि॑ । द्याम् । दे॒वः । न । एति॑ । सूर्यः॑ । त्वे॒षम् । शवः॑ । द॒धि॒रे॒ । नाम॑ । य॒ज्ञिय॑म् । म॒रुतः॑ । वृ॒त्र॒ऽहम् । शवः॑ । ज्येष्ठ॑म् । वृ॒त्र॒ऽहम् । शवः॑ ॥सद्यः । चित् । यस्य । चर्कृतिः । परि । द्याम् । देवः । न । एति । सूर्यः । त्वेषम् । शवः । दधिरे । नाम । यज्ञियम् । मरुतः । वृत्रहम् । शवः । ज्येष्ठम् । वृत्रहम् । शवः ॥sadyaḥ | cit | yasya | carkṛtiḥ | pari | dyām | devaḥ | na | eti | sūryaḥ | tveṣam | śavaḥ | dadhire | nāma | yajñiyam | marutaḥ | vṛtra-ham | śavaḥ | jyeṣṭham | vṛtra-ham | śavaḥ