Sukta 6.48
सकृद्ध द्यौरजायत सकृद्भूमिरजायत । पृश्न्या दुग्धं सकृत्पयस्तदन्यो नानु जायते ॥
स॒कृद्ध॒ द्यौर॑जायत स॒कृद्भूमि॑रजायत । पृश्न्या॑ दु॒ग्धं स॒कृत्पय॒स्तद॒न्यो नानु॑ जायते ॥
sakṛ́d dha dyáur ajāyata sakṛ́d bhū́mir ajāyata | pṛ́śnyā dugdháṃ sakṛ́t páyas tád anyó nā́nu jāyate ||
Once indeed Heaven was born, once Earth was born; once from Pṛśnī was milked the nourishing milk. That primal bringing-forth does not arise again in another: it stands as the unique foundation of creation.
स॒कृत् । ह॒ । द्यौः । अ॒जा॒य॒त॒ । स॒कृत् । भूमिः॑ । अ॒जा॒य॒त॒ । पृश्न्याः॑ । दु॒ग्धम् । स॒कृत् । पयः॑ । तत् । अ॒न्यः । न । अनु॑ । जा॒य॒ते॒ ॥सकृत् । ह । द्यौः । अजायत । सकृत् । भूमिः । अजायत । पृश्न्याः । दुग्धम् । सकृत् । पयः । तत् । अन्यः । न । अनु । जायते ॥sakṛt | ha | dyauḥ | ajāyata | sakṛt | bhūmiḥ | ajāyata | pṛśnyāḥ | dugdham | sakṛt | payaḥ | tat | anyaḥ | na | anu | jāyate