Sukta 6.48
दृतेरिव तेऽवृकमस्तु सख्यम् । अच्छिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः ॥
दृते॑रिव तेऽवृ॒कम॑स्तु स॒ख्यम् । अच्छि॑द्रस्य दध॒न्वत॒: सुपू॑र्णस्य दध॒न्वत॑: ॥
dṛtéḥ iva te ’vṛkám astu sakhyám | ácchidrasya dadhanvatáḥ supū́rṇasya dadhanvatáḥ ||
May thy friendship be unbroken and wolf-free, like that of the steadfast; of one who holds the unpierced, who holds the well-filled—may such firm companionship guard the journey.
दृतेः॑ऽइव । ते । अ॒वृ॒कम् । अ॒स्तु॒ । स॒ख्यम् । अच्छि॑द्रस्य । द॒ध॒न्ऽवतः॑ । सुऽपू॑र्णस्य । द॒ध॒न्ऽवतः॑ ॥दृतेःइव । ते । अवृकम् । अस्तु । सख्यम् । अच्छिद्रस्य । दधन्वतः । सुपूर्णस्य । दधन्वतः ॥dṛteḥ-iva | te | avṛkam | astu | sakhyam | acchidrasya | dadhan-vataḥ | su-pūrṇasya | dadhan-vataḥ