Sukta 6.48
त्वेषं शर्धो न मारुतं तुविष्वण्यनर्वाणं पूषणं सं यथा शता । सं सहस्रा कारिषच्चर्षणिभ्य आँ आविर्गूळ्हा वसू करत्सुवेदा नो वसू करत् ॥
त्वे॒षं शर्धो॒ न मारु॑तं तुवि॒ष्वण्य॑न॒र्वाणं॑ पू॒षणं॒ सं यथा॑ श॒ता । सं स॒हस्रा॒ कारि॑षच्चर्ष॒णिभ्य॒ आँ आ॒विर्गू॒ळ्हा वसू॑ करत्सु॒वेदा॑ नो॒ वसू॑ करत् ॥
tveṣáṃ śárdho na mārútaṃ tuviṣváṇy anarvā́ṇaṃ pūṣáṇaṃ sám yáthā śatā́ | sám sahásrā kā́riṣac carṣaṇíbhya ā́ṃ āvír gūḷhā́ vásū karat suvedā́ no vásū karat ||
May Pūṣan, vehement like a Marut-host, far-resounding and unwearied, gather for us riches as in hundreds, as in thousands for the peoples; may he make the hidden treasures manifest—may the good-knower bring forth for us the true riches.
त्वे॒षम् । शर्धः॑ । न । मारु॑तम् । तु॒वि॒ऽस्वणि॑ । अ॒न॒र्वाण॑म् । पू॒षण॑म् । सम् । यथा॑ । श॒ता । सम् । स॒हस्रा॑ । कारि॑षत् । च॒र्ष॒णिऽभ्यः॑ । आ । आ॒विः । गू॒ळ्हा । वसु॑ । क॒र॒त् । सु॒ऽवेदा॑ । नः॒ । वसु॑ । क॒र॒त् ॥त्वेषम् । शर्धः । न । मारुतम् । तुविस्वणि । अनर्वाणम् । पूषणम् । सम् । यथा । शता । सम् । सहस्रा । कारिषत् । चर्षणिभ्यः । आ । आविः । गूळ्हा । वसु । करत् । सुवेदा । नः । वसु । करत् ॥tveṣam | śardhaḥ | na | mārutam | tuvi-svaṇi | anarvāṇam | pūṣaṇam | sam | yathā | śatā | sam | sahasrā | kāriṣat | carṣaṇi-bhyaḥ | ā | āviḥ | gūḷhā | vasu | karat | su-vedā | naḥ | vasu | karat