Sukta 6.48
भरद्वाजायाव धुक्षत द्विता । धेनुं च विश्वदोहसमिषं च विश्वभोजसम् ॥
भ॒रद्वा॑जा॒याव॑ धुक्षत द्वि॒ता । धे॒नुं च॑ वि॒श्वदो॑हस॒मिषं॑ च वि॒श्वभो॑जसम् ॥
bharadvājā́yā́va dhukṣata dvitā́ | dhenúṃ ca viśvá-dohasam íṣaṃ ca viśvá-bhojasam ||
For Bharadvāja, milk out again and again the cow that yields all boons, and the impulsion of nourishment that feeds all powers—so the seeker may be filled with universal giving.
भ॒रत्ऽवा॑जाय । अव॑ । धु॒क्ष॒त॒ । द्वि॒ता । धे॒नुम् । च॒ । वि॒श्वऽदो॑हसम् । इष॑म् । च॒ । वि॒श्वऽभो॑जसम् ॥भरत्वाजाय । अव । धुक्षत । द्विता । धेनुम् । च । विश्वदोहसम् । इषम् । च । विश्वभोजसम् ॥bharat-vājāya | ava | dhukṣata | dvitā | dhenum | ca | viśva-dohasam | iṣam | ca | v iśva-bhojasam