Sukta 6.47
आ क्रन्दय बलमोजो न आ धा निः ष्टनिहि दुरिता बाधमानः । अप प्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिरसि वीळयस्व ॥
आ क्र॑न्दय॒ बल॒मोजो॑ न॒ आ धा॒ निः ष्ट॑निहि दुरि॒ता बाध॑मानः । अप॑ प्रोथ दुन्दुभे दु॒च्छुना॑ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒ळय॑स्व ॥
ā krándaya bálam ójo na ā dhā níḥ ṣṭánihi duritā́ bā́dhamānaḥ | ápa prótha dundubhe dúcchunā́ ita índrasya múṣṭir asi vīḷáyasva ||
O Drum of the battle, cry out and set within us strength and concentrated force. Thunder forth, driving away the evil movements. Strike down and push away from here the hostile misfortune; for you are the clenched fist of Indra—press forward and prevail.
आ । क्र॒न्द॒य॒ । बल॑म् । ओजः॑ । नः॒ । आ । धाः॒ । निः । स्त॒नि॒हि॒ । दुः॒ऽइ॒ता । बाध॑मानः । अप॑ । प्रो॒थ॒ । दु॒न्दु॒भे॒ । दु॒च्छुनाः॑ । इ॒तः । इन्द्र॑स्य । मु॒ष्टिः । अ॒सि॒ । वी॒ळय॑स्व ॥आ । क्रन्दय । बलम् । ओजः । नः । आ । धाः । निः । स्तनिहि । दुःइता । बाधमानः । अप । प्रोथ । दुन्दुभे । दुच्छुनाः । इतः । इन्द्रस्य । मुष्टिः । असि । वीळयस्व ॥ā | krandaya | balam | ojaḥ | naḥ | ā | dhāḥ | niḥ | stanihi | duḥ-itā | bādhamānaḥ | apa | protha | dundubhe | ducchunāḥ | itaḥ | indrasya | muṣṭiḥ | asi | vīḷayasva