Sukta 6.47
उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् । स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ॥
उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त् । स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद्दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ॥
úpa śvāsaya pṛthivī́m utá dyā́m purutrā́ te manutā́ṃ víṣṭhitaṃ jágat | sá dundubhe sajū́r índreṇa deváir dūrā́d davī́yo ápa sedha śátrūn ||
Breathe upon the Earth and upon Heaven; let the world of men, spread out in many places, take heart through you. O Drum, united with Indra and the Gods, drive away the enemies—far off, still farther—banish the hostile forces from our field.
उप॑ । श्वा॒स॒य॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । पु॒रु॒ऽत्रा । ते॒ । म॒नु॒ता॒म् । विऽस्थि॑तम् । जग॑त् । सः । दु॒न्दु॒भे॒ । स॒ऽजूः । इन्द्रे॑ण । दे॒वैः । दू॒रात् । दवी॑यः । अप॑ । से॒ध॒ । शत्रू॑न् ॥उप । श्वासय । पृथिवीम् । उत । द्याम् । पुरुत्रा । ते । मनुताम् । विस्थितम् । जगत् । सः । दुन्दुभे । सजूः । इन्द्रेण । देवैः । दूरात् । दवीयः । अप । सेध । शत्रून् ॥upa | śvāsaya | pṛthivīm | uta | dyām | puru-trā | te | manutām | vi-sthitam | jagat | saḥ | dundubhe | sa-jūḥ | indreṇa | devaiḥ | dūrāt | davīyaḥ | apa | sedha | śatrūn