Sukta 6.47
आमूरज प्रत्यावर्तयेमाः केतुमद्दुन्दुभिर्वावदीति । समश्वपर्णाश्चरन्ति नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥
आमूर॑ज प्र॒त्याव॑र्तये॒माः के॑तु॒मद्दु॑न्दु॒भिर्वा॑वदीति । समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ॥
āmū́raja prátyāvartayemā́ḥ ketúmad dundubhír vāvadīti | sám aśvapárṇāś cáranti no náro ’smā́kam indra rathíno jayantú ||
Drive back those yonder forces; let the war-drum sound with its bannered sign. Let our men move together with the swift horse-winged energy; O Indra, may our chariot-fighters win.
आ । अ॒मूः । अ॒ज॒ । प्र॒ति॒ऽआव॑र्तय । इ॒माः । के॒तु॒ऽमत् । दु॒न्दु॒भिः । वा॒व॒दी॒ति॒ । सम् । अश्व॑ऽपर्णाः । चर॑न्ति । नः॒ । नरः॑ । अ॒स्माक॑म् । इ॒न्द्र॒ । र॒थिनः॑ । ज॒य॒न्तु॒ ॥आ । अमूः । अज । प्रतिआवर्तय । इमाः । केतुमत् । दुन्दुभिः । वावदीति । सम् । अश्वपर्णाः । चरन्ति । नः । नरः । अस्माकम् । इन्द्र । रथिनः । जयन्तु ॥ā | amūḥ | aja | prati-āvartaya | imāḥ | ketu-mat | dundubhiḥ | vāvadīti | sam | aśva-parṇāḥ | caranti | naḥ | naraḥ | asmākam | indra | rathinaḥ | jayantu