Sukta 6.47
इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः । सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥
इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभि॑: । सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥
índrasya vájro marútām anī́kaṃ mitrásya gárbho váruṇasya nā́bhiḥ | sémāṃ no havyádātiṃ juṣāṇó deva ratha práti havyā́ gṛbhāya ||
This is Indra’s thunderbolt, the front of the Maruts, the womb of Mitra, the navel of Varuṇa. O divine Chariot, consenting to our offering, take up our oblations—receive the giving of the sacrifice and establish it in the right order.
इन्द्र॑स्य । वज्रः॑ । म॒रुता॑म् । अनी॑कम् । मि॒त्रस्य॑ । गर्भः॑ । वरु॑णस्य । नाभिः॑ । सः । इ॒माम् । नः॒ । ह॒व्यद्ऽआ॑तिम् । जु॒षा॒णः । देव॑ । र॒थ॒ । प्रति॑ । ह॒व्या । गृ॒भा॒य॒ ॥इन्द्रस्य । वज्रः । मरुताम् । अनीकम् । मित्रस्य । गर्भः । वरुणस्य । नाभिः । सः । इमाम् । नः । हव्यद्आतिम् । जुषाणः । देव । रथ । प्रति । हव्या । गृभाय ॥indrasya | vajraḥ | marutām | anīkam | mitrasya | garbhaḥ | varuṇasya | nābhiḥ | saḥ | imām | naḥ | havyad-ātim | juṣāṇaḥ | deva | ratha | prati | havyā | gṛbhāya