Sukta 6.47
दिवस्पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः । अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज ॥
दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्य॒: पर्याभृ॑तं॒ सह॑: । अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रं॑ ह॒विषा॒ रथं॑ यज ॥
divás pṛthivyā́ḥ pári ója údbhṛtaṃ vánaspátibhyaḥ pári ā́bhṛtaṃ sáhaḥ | apā́m ojmā́naṃ pári góbhír ā́vṛtam índrasya vájraṃ havíṣā ráthaṃ yaja ||
Worship with the offering the chariot, Indra’s thunderbolt: its force is drawn from Heaven and Earth, its might gathered from the Lords of the Wood; the waters’ energy surrounds it, and it is covered about with Rays. Thus is the instrument of victory formed from the totality of powers.
दि॒वः । पृ॒थि॒व्याः । परि॑ । ओजः॑ । उत्ऽभृ॑तम् । व॒न॒स्पति॑ऽभ्यः । परि॑ । आऽभृ॑तम् । सहः॑ । अ॒पाम् । ओ॒ज्मान॑म् । परि॑ । गोभिः॑ । आऽवृ॑तम् । इन्द्र॑स्य । वज्र॑म् । ह॒विषा॑ । रथ॑म् । य॒ज॒ ॥दिवः । पृथिव्याः । परि । ओजः । उत्भृतम् । वनस्पतिभ्यः । परि । आभृतम् । सहः । अपाम् । ओज्मानम् । परि । गोभिः । आवृतम् । इन्द्रस्य । वज्रम् । हविषा । रथम् । यज ॥divaḥ | pṛthivyāḥ | pari | ojaḥ | ut-bhṛtam | vanaspati-bhyaḥ | pari | ābhṛtam | sahaḥ | apām | ojmānam | pari | gobhiḥ | āvṛtam | indrasya | vajram | haviṣā | ratham | yaja