Sukta 6.47
वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः । गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि ॥
वन॑स्पते वी॒ड्व॑ङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीर॑: । गोभि॒: संन॑द्धो असि वी॒ळय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ॥
vánaspate vīḷváṅgo hí bhūyā asmátsakhā prá-taraṇaḥ su-vī́raḥ | góbhíḥ sánnaddho asi vīḷáyasvāsthātā́ te jayatu jétvāni ||
O Lord of the Forest, become firm-limbed; be our comrade, our overcomer, rich in heroes. Girt with the Rays, stand strong; may your driver win, and may your winnings be victorious.
वन॑स्पते । वी॒ळुऽअ॑ङ्गः । हि । भू॒याः । अ॒स्मत्ऽस॑खा । प्र॒ऽतर॑णः । सु॒ऽवीरः॑ । गोभिः॑ । सम्ऽन॑द्धः । अ॒सि॒ । वी॒ळय॑स्व । आ॒ऽस्था॒ता । ते॒ । ज॒य॒तु॒ । जेत्वा॑नि ॥वनस्पते । वीळुअङ्गः । हि । भूयाः । अस्मत्सखा । प्रतरणः । सुवीरः । गोभिः । सम्नद्धः । असि । वीळयस्व । आस्थाता । ते । जयतु । जेत्वानि ॥vanaspate | vīḷu-aṅgaḥ | hi | bhūyāḥ | asmat-sakhā | pra-taraṇaḥ | su-vīraḥ | gobhiḥ | sam-naddhaḥ | asi | vīḷayasva | āsthātā | te | jayatu | jetvāni