Sukta 6.47
प्रस्तोक इन्नु राधसस्त इन्द्र दश कोशयीर्दश वाजिनोऽदात् । दिवोदासादतिथिग्वस्य राधः शाम्बरं वसु प्रत्यग्रभीष्म ॥
प्र॒स्तो॒क इन्नु राध॑सस्त इन्द्र॒ दश॒ कोश॑यी॒र्दश॑ वा॒जिनो॑ऽदात् । दिवो॑दासादतिथि॒ग्वस्य॒ राध॑: शाम्ब॒रं वसु॒ प्रत्य॑ग्रभीष्म ॥
prastoká ín nu rādhasas ta indra dáśa kośayī́r dáśa vājíno ’dāt | divódāsād atithigvásya rādhaḥ śā́mbaraṃ vásu práty agrabhīṣma ||
A small portion indeed of your bounty, O Indra—yet you gave ten treasure-chests and ten vigorous steeds. From Divodāsa, from Atithigva, we received the Śāmbara wealth—those gains of force that answer to the victory.
प्र॒स्तो॒कः । इत् । नु । राध॑सः । ते॒ । इ॒न्द्र॒ । दश॑ । कोश॑यीः । दश॑ । वा॒जिनः॑ । अ॒दा॒त् । दिवः॑ऽदासात् । अ॒ति॒थि॒ऽग्वस्य॑ । राधः॑ । शा॒म्ब॒रम् । वसु॑ । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ ॥प्रस्तोकः । इत् । नु । राधसः । ते । इन्द्र । दश । कोशयीः । दश । वाजिनः । अदात् । दिवःदासात् । अतिथिग्वस्य । राधः । शाम्बरम् । वसु । प्रति । अग्रभीष्म ॥prastokaḥ | it | nu | rādhasaḥ | te | indra | daśa | kośayīḥ | daśa | vājinaḥ | adāt | divaḥ-dāsāt | atithi-gvasya | rādhaḥ | śāmbaram | vasu | prati | agrabhīṣma