Sukta 6.47
दिवेदिवे सदृशीरन्यमर्धं कृष्णा असेधदप सद्मनो जाः । अहन्दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥
दि॒वेदि॑वे स॒दृशी॑र॒न्यमर्धं॑ कृ॒ष्णा अ॑सेध॒दप॒ सद्म॑नो॒ जाः । अह॑न्दा॒सा वृ॑ष॒भो व॑स्न॒यन्तो॒दव्र॑जे व॒र्चिनं॒ शम्ब॑रं च ॥
divédivé sa-dṛ́śīr anyám árdhaṃ kṛ́ṣṇā asedhad ápa sádmano jā́ḥ | áhann dāsā́ vṛṣabhó vasnayántodávr̥je varcínam śámbaraṃ ca ||
Day by day the blackness that had seized the other half was thrust away from the home of birth. The Bull-power struck down the Dāsas; seeking the plenitudes, he cast out Varchin and also Śambara from their enclosed hold.
दि॒वेऽदि॑वे । स॒ऽदृशीः॑ । अ॒न्यम् । अर्ध॑म् । कृ॒ष्णाः । अ॒से॒ध॒त् । अप॑ । सद्म॑नः । जाः । अह॑न् । दा॒सा । वृ॒ष॒भः । व॒स्न॒यन्ता॑ । उ॒दऽव्र॑जे । व॒र्चिन॑म् । शम्ब॑रम् । च॒ ॥दिवेदिवे । सदृशीः । अन्यम् । अर्धम् । कृष्णाः । असेधत् । अप । सद्मनः । जाः । अहन् । दासा । वृषभः । वस्नयन्ता । उदव्रजे । वर्चिनम् । शम्बरम् । च ॥dive--dive | sa-dṛśīḥ | anyam | ardham | kṛṣṇāḥ | asedhat | apa | sadmanaḥ | jāḥ | ahan | dāsā | vṛṣabhaḥ | vasnayantā | uda-vraje | varcinam | śambaram | ca