Sukta 6.47
अयं स्वादुरिह मदिष्ठ आस यस्येन्द्रो वृत्रहत्ये ममाद । पुरूणि यश्च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो हन् ॥
अ॒यं स्वा॒दुरि॒ह मदि॑ष्ठ आस॒ यस्येन्द्रो॑ वृत्र॒हत्ये॑ म॒माद॑ । पु॒रूणि॒ यश्च्यौ॒त्ना शम्ब॑रस्य॒ वि न॑व॒तिं नव॑ च दे॒ह्यो॒३॒॑ हन् ॥
ayáṃ svādúr ihá mádiṣṭha āsa yásyéndro vṛtrahátye mamā́da | purū́ṇi yáś cyautnā́ śámbharasya ví navatíṃ náva ca dehyò han ||
This is sweet here, most intoxicating; in it Indra exults for the slaying of the Coverer. He who shattered the many strongholds of Śambara, who struck down the ninety and nine—he takes delight in this force.
अ॒यम् । स्वा॒दुः । इ॒ह । मदि॑ष्ठः । आ॒स॒ । यस्य॑ । इन्द्रः॑ । वृ॒त्र॒ऽहत्ये॑ । म॒माद॑ । पु॒रूणि॑ । यः । च्यौ॒त्ना । शम्ब॑रस्य । वि । न॒व॒तिम् । नव॑ । च॒ । दे॒ह्यः॑ । हन् ॥अयम् । स्वादुः । इह । मदिष्ठः । आस । यस्य । इन्द्रः । वृत्रहत्ये । ममाद । पुरूणि । यः । च्यौत्ना । शम्बरस्य । वि । नवतिम् । नव । च । देह्यः । हन् ॥ayam | svāduḥ | iha | madiṣṭhaḥ | āsa | yasya | indraḥ | vṛtra-hatye | mamāda | purūṇi | yaḥ | cyautnā | śambarasya | vi | navatim | nava | ca | dehyaḥ | han