Sukta 6.47
स्वादुष्किलायं मधुमाँ उतायं तीव्रः किलायं रसवाँ उतायम् । उतो न्वस्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु ॥
स्वा॒दुष्किला॒यं मधु॑माँ उ॒तायं ती॒व्रः किला॒यं रस॑वाँ उ॒तायम् । उ॒तो न्व१॒॑स्य प॑पि॒वांस॒मिन्द्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ॥
svādúṣ kilā́yaṃ mádhumām̐ utā́yaṃ tīvráḥ kilā́yaṃ rásavām̐ utā́yam | utó nv asyá papivā́ṃsam índraṃ ná káś caná sahata āhavéṣu ||
Sweet indeed is this, honey-full is this; keen indeed is this, full of essence is this: and now, when Indra has drunk of it, none at all can withstand him in the inner battles.
स्वा॒दुः । किल॑ । अ॒यम् । मधु॑ऽमान् । उ॒त । अ॒यम् । ती॒व्रः । किल । अ॒यम् । रस॑ऽवान् । उ॒त । अ॒यम् । उ॒तो इति॑ । नु । अ॒स्य । प॒पि॒ऽवांस॑म् । इन्द्र॑म् । न । कः । च॒न । स॒ह॒ते॒ । आ॒ऽह॒वेषु॑ ॥स्वादुः । किल । अयम् । मधुमान् । उत । अयम् । तीव्रः । किल । अयम् । रसवान् । उत । अयम् । उतो इति । नु । अस्य । पपिवांसम् । इन्द्रम् । न । कः । चन । सहते । आहवेषु ॥svāduḥ | kila | ayam | madhu-mān | uta | ayam | tīvraḥ | kila | ayam | rasa-vān | uta | ayam | uto iti | nu | asya | papi-vāṃsam | indram | na | kaḥ | cana | sahate | āhaveṣu