Sukta 6.47
अयं मे पीत उदियर्ति वाचमयं मनीषामुशतीमजीगः । अयं षळुर्वीरमिमीत धीरो न याभ्यो भुवनं कच्चनारे ॥
अ॒यं मे॑ पी॒त उदि॑यर्ति॒ वाच॑म॒यं म॑नी॒षामु॑श॒तीम॑जीगः । अ॒यं षळु॒र्वीर॑मिमीत॒ धीरो॒ न याभ्यो॒ भुव॑नं॒ कच्च॒नारे ॥
ayáṃ me pītá úd iyarti vā́cam ayáṃ manīṣā́m uśatī́m ajīgaḥ | ayáṃ ṣáḷ urvī́r amimīta dhī́ro ná yā́bhyo bhúvanaṃ kác canā́re ||
This, when drunk by me, lifts up my speech; this awakens the desiring thought within. This, the steadfast seer-force, measured out the six wide spaces—beyond which no world at all stands apart.
अ॒यम् । मे॒ । पी॒तः । उत् । इ॒य॒र्ति॒ । वाच॑म् । अ॒यम् । म॒नी॒षाम् । उ॒श॒तीम् । अ॒जी॒ग॒रिति॑ । अ॒यम् । षट् । उ॒र्वीः । अ॒मि॒मी॒त॒ । धीरः॑ । न । याभ्यः॑ । भुव॑नम् । कत् । च॒न । आ॒रे ॥अयम् । मे । पीतः । उत् । इयर्ति । वाचम् । अयम् । मनीषाम् । उशतीम् । अजीगरिति । अयम् । षट् । उर्वीः । अमिमीत । धीरः । न । याभ्यः । भुवनम् । कत् । चन । आरे ॥ayam | me | pītaḥ | ut | iyarti | vācam | ayam | manīṣām | uśatīm | ajīgaḥ | ayam | ṣaṭ | urvīḥ | amimīta | dhīraḥ | na | yābhyaḥ | bhuvanam | kat | cana | āre