Sukta 6.47
रूपंरूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दश ॥
रू॒पंरू॑पं॒ प्रति॑रूपो बभूव॒ तद॑स्य रू॒पं प्र॑ति॒चक्ष॑णाय । इन्द्रो॑ मा॒याभि॑: पुरु॒रूप॑ ईयते यु॒क्ता ह्य॑स्य॒ हर॑यः श॒ता दश॑ ॥
rūpáṃ-rūpaṃ práti-rūpo babhūva tád asya rūpáṃ prati-cákṣaṇāya | índro māyā́bhiḥ puru-rū́pa īyate yuktā́ hí asya hárayaḥ śatā́ dáśa ||
Form after form he becomes the corresponding form; that is his form for our seeing. Indra moves by his powers of shaping (māyā), manifold in form; yoked to him indeed are his tawny steeds, a hundred and ten.
रू॒पम्ऽरू॑पम् । प्रति॑ऽरूपः । ब॒भू॒व॒ । तत् । अ॒स्य॒ । रू॒पम् । प्र॒ति॒ऽचक्ष॑णाय । इन्द्रः॑ । मा॒याभिः॑ । पु॒रु॒ऽरूपः॑ । ई॒य॒ते॒ । यु॒क्ताः । हि । अ॒स्य॒ । हर॑यः । श॒ता । दश॑ ॥रूपम्रूपम् । प्रतिरूपः । बभूव । तत् । अस्य । रूपम् । प्रतिचक्षणाय । इन्द्रः । मायाभिः । पुरुरूपः । ईयते । युक्ताः । हि । अस्य । हरयः । शता । दश ॥rūpam-rūpam | prati-rūpaḥ | babhūva | tat | asya | rūpam | prati-cakṣaṇāya | indraḥ | māyābhiḥ | puru-rūpaḥ | īyate | yuktāḥ | hi | asya | harayaḥ | śatā | daśa