Sukta 6.47
परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति । अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति ॥
परा॒ पूर्वे॑षां स॒ख्या वृ॑णक्ति वि॒तर्तु॑राणो॒ अप॑रेभिरेति । अना॑नुभूतीरवधून्वा॒नः पू॒र्वीरिन्द्र॑: श॒रद॑स्तर्तरीति ॥
párā pū́rveṣāṃ sakhyā́ vṛṇakti vi-tártūrāṇo áprarebhir eti | anā́nubhūtīr ava-dhūnvānáḥ pūrvī́r índraḥ śáradas tartarīti ||
He casts away the friendships of the former and, hastening beyond, goes with the later. Shaking off what has not been truly experienced, Indra repeatedly overpasses the many seasons of the past.
परा॑ । पूर्वे॑षाम् । स॒ख्या । वृ॒ण॒क्ति॒ । वि॒ऽतर्तु॑राणः । अप॑रेभिः । ए॒ति॒ । अन॑नुऽभूतीः । अ॒व॒ऽधू॒न्वा॒नः । पू॒र्वीः । इन्द्रः॑ । श॒रदः॑ । त॒र्त॒री॒ति॒ ॥परा । पूर्वेषाम् । सख्या । वृणक्ति । वितर्तुराणः । अपरेभिः । एति । अननुभूतीः । अवधून्वानः । पूर्वीः । इन्द्रः । शरदः । तर्तरीति ॥parā | pūrveṣām | sakhyā | vṛṇakti | vi-tarturāṇaḥ | aparebhiḥ | eti | ananu-bhūtīḥ | ava-dhūnvānaḥ | pūrvīḥ | indraḥ | śaradaḥ | tartarīti