Sukta 6.47
शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः । एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥
शृ॒ण्वे वी॒र उ॒ग्रमु॑ग्रं दमा॒यन्न॒न्यम॑न्यमतिनेनी॒यमा॑नः । ए॒ध॒मा॒न॒द्विळु॒भय॑स्य॒ राजा॑ चोष्कू॒यते॒ विश॒ इन्द्रो॑ मनु॒ष्या॑न् ॥
śṛṇvé vīrá ugrám-ugraṃ damā-yán anyám-anyaṃ ati-nenī́yamānaḥ | edhamāná-dvíḷ ubháyasya rā́jā coṣkū́yate víśa índro manuṣyā̀n ||
The hero is heard—ever more and more formidable—subduing, driving beyond one after another. Growing, hating the divided, king of both (sides), Indra urges on the human clans to move and strive.
शृ॒ण्वे । वी॒रः । उ॒ग्रम्ऽउ॑ग्रम् । द॒म॒ऽयन् । अ॒न्यम्ऽअ॑न्यम् । अ॒ति॒ऽने॒नी॒यमा॑नः । ए॒ध॒मा॒न॒ऽद्विट् । उ॒भय॑स्य । राजा॑ । चो॒ष्कू॒यते॑ । विशः॑ । इन्द्रः॑ । म॒नु॒षया॑न् ॥शृण्वे । वीरः । उग्रम्उग्रम् । दमयन् । अन्यम्अन्यम् । अतिनेनीयमानः । एधमानद्विट् । उभयस्य । राजा । चोष्कूयते । विशः । इन्द्रः । मनुषयान् ॥śṛṇve | vīraḥ | ugram-ugram | dama-yan | anyam-anyam | ati-nenīyamānaḥ | edhamāna-dviṭ | ubhayasya | rājā | coṣkūyate | viśaḥ | indraḥ | manuṣayān