Sukta 6.47
अव त्वे इन्द्र प्रवतो नोर्मिर्गिरो ब्रह्माणि नियुतो धवन्ते । उरू न राधः सवना पुरूण्यपो गा वज्रिन्युवसे समिन्दून् ॥
अव॒ त्वे इ॑न्द्र प्र॒वतो॒ नोर्मिर्गिरो॒ ब्रह्मा॑णि नि॒युतो॑ धवन्ते । उ॒रू न राध॒: सव॑ना पु॒रूण्य॒पो गा व॑ज्रिन्युवसे॒ समिन्दू॑न् ॥
áva tvé índra pra-váto nṓrmír gíro bráhmāṇi ni-yúto dhávante | urū́ ná rā́dhaḥ sávanā purū́ṇy apó gā́ vajrin yúvase sám índūn ||
Toward thee, Indra, our words and our formulations rush like a descending wave. Wide is thy giving: many are the pressings; for thy youthful might, O wielder of the thunderbolt, the waters, the rays (cows), and the Soma-drops are gathered together.
अव॑ । त्वे इति॑ । इ॒न्द्र॒ । प्र॒ऽवतः॑ । न । ऊ॒र्मिः । गिरः॑ । ब्रह्मा॑णि । नि॒ऽयुतः॑ । ध॒व॒न्ते॒ । उ॒रु । न । राधः॑ । सव॑ना । पु॒रूणि॑ । अ॒पः । गाः । व॒ज्रि॒न् । यु॒व॒से॒ । सम् । इन्दू॑न् ॥अव । त्वे इति । इन्द्र । प्रवतः । न । ऊर्मिः । गिरः । ब्रह्माणि । नियुतः । धवन्ते । उरु । न । राधः । सवना । पुरूणि । अपः । गाः । वज्रिन् । युवसे । सम् । इन्दून् ॥ava | tve iti | indra | pra-vataḥ | na | ūrmiḥ | giraḥ | brahmāṇi | ni-yutaḥ | dhavante | uru | na | rādhaḥ | savanā | purūṇi | apaḥ | gāḥ | vajrin | yuvase | sam | indūn