Sukta 6.47
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । स सुत्रामा स्ववाँ इन्द्रो अस्मे आराच्चिद्द्वेषः सनुतर्युयोतु ॥
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म । स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेष॑: सनु॒तर्यु॑योतु ॥
tásya vayáṃ su-matáu yajñíyasyā́pi bhadré saumanasé syāma | sá su-trā́mā svávāṃ índro asmē ārā́c cid dvéṣaḥ sanutár yuyotu ||
In the good thought of that adorable One may we dwell, yes, in a fortunate gladness of mind. May that Indra, the perfect protector, strong in himself, drive hatred away from us—far off, utterly.
तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ । सः । सु॒ऽत्रामा॑ । स्वऽवा॑न् । इन्द्रः॑ । अ॒स्मे इति॑ । आ॒रात् । चि॒त् । द्वेषः॑ । स॒नु॒तः । यु॒यो॒तु॒ ॥तस्य । वयम् । सुमतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम । सः । सुत्रामा । स्ववान् । इन्द्रः । अस्मे इति । आरात् । चित् । द्वेषः । सनुतः । युयोतु ॥tasya | vayam | su-matau | yajñiyasya | api | bhadre | saumanase | syāma | saḥ | su-trāmā | sva-vān | indraḥ | asme iti | ārāt | cit | dveṣaḥ | sanutaḥ | yuyotu