Sukta 6.47
इन्द्रः सुत्रामा स्ववाँ अवोभिः सुमृळीको भवतु विश्ववेदाः । बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥
इन्द्र॑: सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृळी॒को भ॑वतु वि॒श्ववे॑दाः । बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥
índraḥ su-trā́mā svávāṃ ávobhiḥ su-mṛḷī́ko bhavatu viśvá-vedāḥ | bā́dhatāṃ dvéṣo abháyaṃ kṛṇotu su-vī́ryasya pátayaḥ syāma ||
May Indra, the perfect protector, rich in his own power, by his helps become wholly gracious, the knower of all. Let him smite hatred and make fearlessness; may we be masters of a splendid hero-force.
इन्द्रः॑ । सु॒ऽत्रामा॑ । स्वऽवा॑न् । अवः॑ऽभिः । सु॒ऽमृ॒ळी॒कः । भ॒व॒तु॒ । वि॒श्वऽवे॑दाः । बाध॑ताम् । द्वेषः॑ । अभ॑यम् । कृ॒णो॒तु॒ । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥इन्द्रः । सुत्रामा । स्ववान् । अवःभिः । सुमृळीकः । भवतु । विश्ववेदाः । बाधताम् । द्वेषः । अभयम् । कृणोतु । सुवीर्यस्य । पतयः । स्याम ॥indraḥ | su-trāmā | sva-vān | avaḥ-bhiḥ | su-mṛḷīkaḥ | bhavatu | viśva-vedāḥ | bādhatām | dveṣaḥ | abhayam | kṛṇotu | su-vīryasya | patayaḥ | syāma