Sukta 6.43
यस्य गा अन्तरश्मनो मदे दृळ्हा अवासृजः । अयं स सोम इन्द्र ते सुतः पिब ॥
यस्य॒ गा अ॒न्तरश्म॑नो॒ मदे॑ दृ॒ळ्हा अ॒वासृ॑जः । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥
yásya gā́ ántar áśmano máde dṛḷhā́ avā́sṛjaḥ | ayáṃ sá sóma indra te sutáḥ píba ||
You who, in the ecstasy, released the strong-held Rays (cows) from within the stone—this is that Soma for you, O Indra, pressed out: drink.
यस्य॑ । गाः । अ॒न्तः । अश्म॑नः । मदे॑ । दृ॒ळ्हाः । अ॒व॒ऽअसृ॑जः । अ॒यम् । सः । सोमः॑ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब॑ ॥यस्य । गाः । अन्तः । अश्मनः । मदे । दृळ्हाः । अवअसृजः । अयम् । सः । सोमः । इन्द्र । ते । सुतः । पिब ॥yasya | gāḥ | antaḥ | aśmanaḥ | made | dṛḷhāḥ | ava-asṛjaḥ | ayam | saḥ | somaḥ | indra | te | sutaḥ | piba