Sukta 6.43
यस्य तीव्रसुतं मदं मध्यमन्तं च रक्षसे । अयं स सोम इन्द्र ते सुतः पिब ॥
यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मन्तं॑ च॒ रक्ष॑से । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥
yásya tīvrá-sutaṃ mádaṃ mádhyam ántaṃ ca rákṣase | ayáṃ sá sóma indra te sutáḥ píba ||
You who guard the ecstasy pressed in its sharp intensity—its middle and its end as well—this is that Soma for you, O Indra, pressed out: drink.
यस्य॑ । ती॒व्र॒ऽसुत॑म् । मद॑म् । मध्य॑म् । अन्त॑म् । च॒ । रक्ष॑से । अ॒यम् । सः । सोमः॑ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब॑ ॥यस्य । तीव्रसुतम् । मदम् । मध्यम् । अन्तम् । च । रक्षसे । अयम् । सः । सोमः । इन्द्र । ते । सुतः । पिब ॥yasya | tīvra-sutam | madam | madhyam antam | ca | rakṣase | ayam | saḥ | somaḥ | indra | te | sutaḥ | piba