Sukta 6.43
यस्य मन्दानो अन्धसो माघोनं दधिषे शवः । अयं स सोम इन्द्र ते सुतः पिब ॥
यस्य॑ मन्दा॒नो अन्ध॑सो॒ माघो॑नं दधि॒षे शव॑: । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥
yásya mandānó ándhaso mā́ghonaṃ dadhíṣe śávaḥ | ayáṃ sá sóma indra te sutáḥ píba ||
You who, rejoicing in the Soma-essence, set in place the force of the bounteous giver—this is that Soma for you, O Indra, pressed out: drink.
यस्य॑ । म॒न्दा॒नः । अन्ध॑सः । माघो॑नम् । द॒धि॒षे । शवः॑ । अ॒यम् । सः । सोमः॑ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब॑ ॥यस्य । मन्दानः । अन्धसः । माघोनम् । दधिषे । शवः । अयम् । सः । सोमः । इन्द्र । ते । सुतः । पिब ॥yasya | mandānaḥ | andhasaḥ | māghonam | dadhiṣe | śavaḥ | ayam | saḥ | somaḥ | indra | te | sutaḥ | piba