Sukta 6.43
यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयः । अयं स सोम इन्द्र ते सुतः पिब ॥
यस्य॒ त्यच्छम्ब॑रं॒ मदे॒ दिवो॑दासाय र॒न्धय॑: । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥
yásya tyác chámbaraṃ máde divodā́sāya randháyaḥ | ayáṃ sá sóma indra te sutáḥ píba ||
You who, in the ecstasy, subdued that Śambara for Divodāsa—this is that Soma for you, O Indra, pressed out: drink.
यस्य॑ । त्यत् । शम्ब॑रम् । मदे॑ । दिवः॑ऽदासाय । र॒न्धयः॑ । अ॒यम् । सः । सोमः॑ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब॑ ॥यस्य । त्यत् । शम्बरम् । मदे । दिवःदासाय । रन्धयः । अयम् । सः । सोमः । इन्द्र । ते । सुतः । पिब ॥yasya | tyat | śambaram | made | divaḥ-dāsāya | randhayaḥ | ayam | saḥ | somaḥ | indra | te | sutaḥ | piba