Sukta 6.42
अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम् । कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्परत् ॥
अ॒स्माअ॑स्मा॒ इदन्ध॒सोऽध्व॑र्यो॒ प्र भ॑रा सु॒तम् । कु॒वित्स॑मस्य॒ जेन्य॑स्य॒ शर्ध॑तो॒ऽभिश॑स्तेरव॒स्पर॑त् ॥
asmā́-asmā íd ándhaso’́dhvaryo prá bharā sutám | kúvit samásya jényasya śárdhato’bhí-śaster ava-spárat ||
To him, to him indeed, O Adhvaryu, bring forward the pressed Soma-essence. Perhaps the conquering one, with his battling host, will ward off the assault of the curse and the hostile word.
अस्मैऽअ॑स्मै । इत् । अन्ध॑सः । अध्व॑र्यो॒ इति॑ । प्र । भ॒र॒ । सु॒तम् । कु॒वित् । स॒म॒स्य॒ । जेन्य॑स्य । शर्ध॑तः । अ॒भिऽश॑स्तेः । अ॒व॒ऽस्पर॑त् ॥अस्मैअस्मै । इत् । अन्धसः । अध्वर्यो इति । प्र । भर । सुतम् । कुवित् । समस्य । जेन्यस्य । शर्धतः । अभिशस्तेः । अवस्परत् ॥asmai-asmai | it | andhasaḥ | adhvaryo iti | pra | bhara | sutam | kuvit | samasya | jenyasya | śardhataḥ | abhi-śasteḥ | ava-sparat