Sukta 6.42
यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ । वेदा विश्वस्य मेधिरो धृषत्तंतमिदेषते ॥
यदी॑ सु॒तेभि॒रिन्दु॑भि॒: सोमे॑भिः प्रति॒भूष॑थ । वेदा॒ विश्व॑स्य॒ मेधि॑रो धृ॒षत्तंत॒मिदेष॑ते ॥
yádī sutébhir índubhiḥ sómebhiḥ prati-bhū́ṣatha | védā víśvasya médhiro dhṛṣát táṃ-tam íd ā́ īṣate ||
When you are adorned and met with the pressed bright drops, with the Somas, then the wise one knows of everything; the bold spirit seeks ever more and more of That.
यदि॑ । सु॒तेभिः॑ । इन्दु॑ऽभिः । सोमे॑भिः । प्र॒ति॒ऽभूष॑थ । वेद॑ । विश्व॑स्य । मेधि॑रः । धृ॒षत् । तम्ऽत॑म् । इत् । आ । ई॒ष॒ते॒ ॥यदि । सुतेभिः । इन्दुभिः । सोमेभिः । प्रतिभूषथ । वेद । विश्वस्य । मेधिरः । धृषत् । तम्तम् । इत् । आ । ईषते ॥yadi | sutebhiḥ | indu-bhiḥ | somebhiḥ | prati-bhūṣatha | veda | viśvasya | medhiraḥ | dhṛṣat | tam-tam | it | ā | īṣate