Sukta 6.40
यदिन्द्र दिवि पार्ये यदृधग्यद्वा स्वे सदने यत्र वासि । अतो नो यज्ञमवसे नियुत्वान्त्सजोषाः पाहि गिर्वणो मरुद्भिः ॥
यदि॑न्द्र दि॒वि पार्ये॒ यदृध॒ग्यद्वा॒ स्वे सद॑ने॒ यत्र॒ वासि॑ । अतो॑ नो य॒ज्ञमव॑से नि॒युत्वा॑न्त्स॒जोषा॑: पाहि गिर्वणो म॒रुद्भि॑: ॥
yád indra diví pā́rye yád ṛ́dhag yád vā́ své sádane yátra vā́ ási | átó no yajñám aváse niyutvā́n sa-jóṣāḥ pāhi girvaṇo marúd-bhiḥ ||
Whether, Indra, you are beyond in heaven, or apart, or in your own seat wherever you dwell—thence guard our sacrifice for its protecting force. Harnessed, in one accord, protect us, O lord of the chant, together with the Maruts.
यत् । इ॒न्द्र॒ । दि॒वि । पार्ये॑ । यत् । ऋध॑क् । यत् । वा॒ । स्वे । सद॑ने । यत्र॑ । वा॒ । असि॑ । अतः॑ । नः॒ । य॒ज्ञम् । अव॑से । नि॒युत्वा॑न् । स॒ऽजोषाः॑ । पा॒हि॒ । गि॒र्व॒णः॒ । म॒रुत्ऽभिः॑ ॥यत् । इन्द्र । दिवि । पार्ये । यत् । ऋधक् । यत् । वा । स्वे । सदने । यत्र । वा । असि । अतः । नः । यज्ञम् । अवसे । नियुत्वान् । सजोषाः । पाहि । गिर्वणः । मरुत्भिः ॥yat | indra | divi | pārye | yat | ṛdhak | yat | vā | sve | sadane | yatra | vā | asi | ataḥ | naḥ | yajñam | avase | niyutvān | sa-joṣāḥ | pāhi | girvaṇaḥ | marut-bhiḥ