Sukta 6.4
त्वां हि मन्द्रतममर्कशोकैर्ववृमहे महि नः श्रोष्यग्ने । इन्द्रं न त्वा शवसा देवता वायुं पृणन्ति राधसा नृतमाः ॥
त्वां हि म॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ न॒: श्रोष्य॑ग्ने । इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता॑ वा॒युं पृ॑णन्ति॒ राध॑सा॒ नृत॑माः ॥
tvā́ṃ hí mandrá-tamam arka-śokáir vavṛmáhe máhi naḥ śróṣy agne | índraṃ na tvā śávasā devátā vāyúṃ pṛṇanti rā́dhasā nṛ́-tamāḥ ||
For we have chosen thee, most gladdening, with mantra-flames; hear us, O Agni, for our great good. As the gods fill Indra with strength and Vayu with bounty, so do the best of men fill thee with power and fulfillment.
त्वाम् । हि । म॒न्द्रऽत॑मम् । अ॒र्क॒ऽशो॒कैः । व॒वृ॒महे॑ । महि॑ । नः॒ । श्रोषि॑ । अ॒ग्ने॒ । इन्द्र॑म् । न । त्वा॒ । शव॑सा । दे॒वता॑ । वा॒युम् । पृ॒ण॒न्ति॒ । राध॑सा । नृऽत॑माः ॥त्वाम् । हि । मन्द्रतमम् । अर्कशोकैः । ववृमहे । महि । नः । श्रोषि । अग्ने । इन्द्रम् । न । त्वा । शवसा । देवता । वायुम् । पृणन्ति । राधसा । नृतमाः ॥tvām | hi | mandra-tamam | arka-śokaiḥ | vavṛmahe | mahi | naḥ | śroṣi | agne | indram | na | tvā | śavasā | devatā | vāyum | pṛṇanti | rādhasā | nṛ-tamāḥ