Sukta 6.4
नू नो अग्नेऽवृकेभिः स्वस्ति वेषि रायः पथिभिः पर्ष्यंहः । ता सूरिभ्यो गृणते रासि सुम्नं मदेम शतहिमाः सुवीराः ॥
नू नो॑ अग्नेऽवृ॒केभि॑: स्व॒स्ति वेषि॑ रा॒यः प॒थिभि॒: पर्ष्यंह॑: । ता सू॒रिभ्यो॑ गृण॒ते रा॑सि सु॒म्नं मदे॑म श॒तहि॑माः सु॒वीरा॑: ॥
nū no agne’vṛkebhiḥ svasti veṣi rāyaḥ pathibhiḥ parṣy aṃhaḥ | tā sūribhyo gṛṇate rāsi sumnam madema śata-himāḥ su-vīrāḥ ||
Now, O Agni, lead us in safety by paths where no devourer can seize us; carry us across the tightness of sin and distress. Give to the seers who sing to you that glad grace; may we grow in the ecstasy of your force—enduring through a hundred winters, rich in heroic energies.
नु । नः॒ । अ॒ग्ने॒ । अ॒वृ॒केभिः॑ । स्व॒स्ति । वेषि॑ । रा॒यः । प॒थिऽभिः । पर्षि॑ । अंहः॑ । ता । सूरिऽभ्यः॑ । गृ॒ण॒ते । रा॒सि॒ । सु॒म्नम् । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥नु । नः । अग्ने । अवृकेभिः । स्वस्ति । वेषि । रायः । पथिभिः । पर्षि । अंहः । ता । सूरिभ्यः । गृणते । रासि । सुम्नम् । मदेम । शतहिमाः । सुवीराः ॥nu | naḥ | agne | avṛkebhiḥ | svasti | veṣi | rāyaḥ | pathi-bhiḥ | parṣi | aṃhaḥ | tā | sūri-bhyaḥ | gṛṇate | rāsi | sumnam | madema | śata-himāḥ | su-vīrāḥ