Sukta 6.4
आ सूर्यो न भानुमद्भिरर्कैरग्ने ततन्थ रोदसी वि भासा । चित्रो नयत्परि तमांस्यक्तः शोचिषा पत्मन्नौशिजो न दीयन् ॥
आ सूर्यो॒ न भा॑नु॒मद्भि॑र॒र्कैरग्ने॑ त॒तन्थ॒ रोद॑सी॒ वि भा॒सा । चि॒त्रो न॑य॒त्परि॒ तमां॑स्य॒क्तः शो॒चिषा॒ पत्म॑न्नौशि॒जो न दीय॑न् ॥
ā́ sū́ryo na bhā́numadbhir arkáir agne tatántha rodasī́ ví bhāsā́ | citró nayat pári tamā́ṃsy aktáḥ śóciṣā pátmann auśijó na dī́yan ||
Like the Sun with ray-laden hymns, O Agni, thou hast stretched out the two worlds with thy light. Varied in splendor, anointed, thou leadest around the darknesses; with flame in swift motion, like Auśija, thou givest (the right passage).
आ । सूर्यः॑ । न । भा॒नु॒मत्ऽभिः॑ । अ॒र्कैः । अग्ने॑ । त॒तन्थ॑ । रोद॑सी॒ इति॑ । वि । भा॒सा । चि॒त्रः । न॒य॒त् । परि॑ । तमां॑सि । अ॒क्तः । शो॒चिषा॑ । पत्म॑न् । औ॒शि॒जः । न । दीय॑न् ॥आ । सूर्यः । न । भानुमत्भिः । अर्कैः । अग्ने । ततन्थ । रोदसी इति । वि । भासा । चित्रः । नयत् । परि । तमांसि । अक्तः । शोचिषा । पत्मन् । औशिजः । न । दीयन् ॥ā | sūryaḥ | na | bhānumat-bhiḥ | arkaiḥ | agne | tatantha | rodasī iti | vi | bhāsā | citraḥ | nayat | pari | tamāṃsi | aktaḥ | śociṣā | patman | auśijaḥ | na | dīyan