Sukta 6.4
नितिक्ति यो वारणमन्नमत्ति वायुर्न राष्ट्र्यत्येत्यक्तून् । तुर्याम यस्त आदिशामरातीरत्यो न ह्रुतः पततः परिह्रुत् ॥
निति॑क्ति॒ यो वा॑र॒णमन्न॒मत्ति॑ वा॒युर्न राष्ट्र्यत्ये॑त्य॒क्तून् । तु॒र्याम॒ यस्त॑ आ॒दिशा॒मरा॑ती॒रत्यो॒ न ह्रुत॒: पत॑तः परि॒ह्रुत् ॥
ní-tikti yó vāraṇám ánnám átti vāyúr na rā́ṣṭry áty ety aktū́n | tuyā́rma yás ta ādiśā́m arā́tīr átyo na hrutáḥ pátataḥ pari-hrút ||
He who keenly consumes the chosen food, and like the wind overpasses the nights in his mastery; the swift one who, by thy direction, circles round the hostilities—like a horse not caught, flying past all that would seize.
निऽति॑क्ति । यः । वा॒र॒नम् । अन्न॑म् । अत्ति॑ । वा॒युः । न । राष्ट्री॑ । अति॑ । ए॒ति॒ । अ॒क्तून् । तु॒र्यामः॑ । यः । ते॒ । आ॒ऽदिशा॑म् । अरा॑तीः । अत्यः॑ । न । ह्रुतः॑ । पत॑तः । प॒रि॒ऽह्रुत् ॥नितिक्ति । यः । वारनम् । अन्नम् । अत्ति । वायुः । न । राष्ट्री । अति । एति । अक्तून् । तुर्यामः । यः । ते । आदिशाम् । अरातीः । अत्यः । न । ह्रुतः । पततः । परिह्रुत् ॥ni-tikti | yaḥ | vāranam | annam | atti | vāyuḥ | na | rāṣṭrī | ati | eti | aktūn | tuyārmaḥ | yaḥ | te | ādiśām | arātīḥ | atyaḥ | na | hrutaḥ | patataḥ | pari-hrut