Sukta 6.4
स नो विभावा चक्षणिर्न वस्तोरग्निर्वन्दारु वेद्यश्चनो धात् । विश्वायुर्यो अमृतो मर्त्येषूषर्भुद्भूदतिथिर्जातवेदाः ॥
स नो॑ वि॒भावा॑ च॒क्षणि॒र्न वस्तो॑र॒ग्निर्व॒न्दारु॒ वेद्य॒श्चनो॑ धात् । वि॒श्वायु॒र्यो अ॒मृतो॒ मर्त्ये॑षूष॒र्भुद्भूदति॑थिर्जा॒तवे॑दाः ॥
sá no vibhā́vā cakṣáṇir na vástor agnír vandā́ru védyaś canó dhāt | viśvā́yur yó amṛ́to mártyeṣūṣár-bhūd bhūd átithir jā́tavedāḥ ||
May he, our far-shining Agni, like a discerning eye at dawn, establish for us the adored and knowable (presence). He who is universal life, immortal in mortals—born with the Dawn—may Jātavedas become the guest (within us).
सः । नः॒ । वि॒भाऽवा॑ । च॒क्षणिः॑ । न । वस्तोः॑ । अ॒ग्निः । व॒न्दारु॑ । वेद्यः॑ । चनः॑ । धा॒त् । वि॒श्वऽआ॑युः । यः । अ॒मृतः॑ । मर्त्ये॑षु । उ॒षः॒ऽभुत् । भूत् । अति॑थिः । जा॒तऽवे॑दाः ॥सः । नः । विभावा । चक्षणिः । न । वस्तोः । अग्निः । वन्दारु । वेद्यः । चनः । धात् । विश्वआयुः । यः । अमृतः । मर्त्येषु । उषःभुत् । भूत् । अतिथिः । जातवेदाः ॥saḥ | naḥ | vibhāvā | cakṣaṇiḥ | na | vastoḥ | agniḥ | vandāru | vedyaḥ | canaḥ | dhāt | viśva-āyuḥ | yaḥ | amṛtaḥ | martyeṣu | uṣaḥ-bhut | bhūt | atithiḥ | jāta-vedāḥ