Sukta 6.4
यथा होतर्मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि । एवा नो अद्य समना समानानुशन्नग्न उशतो यक्षि देवान् ॥
यथा॑ होत॒र्मनु॑षो दे॒वता॑ता य॒ज्ञेभि॑: सूनो सहसो॒ यजा॑सि । ए॒वा नो॑ अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ॥
yáthā hotar mánuṣo deva-tā́tā yajñébhīḥ sū́no sahaso yájāsi | evā́ no adyá samanā́ samānān uśánn agna uśató yakṣi devā́n ||
As thou, O Hotar, offspring of Force, establisher of the gods, sacrificest for Manu by the sacrifices, so today for us—seeking one meeting and one accord—O Agni, consenting, sacrifice to the gods who desire.
यथा॑ । हो॒तः॒ । मनु॑षः । दे॒वऽता॑ता । य॒ज्ञेभिः॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यजा॑सि । ए॒व । नः॒ । अ॒द्य । स॒म॒ना । स॒मा॒नान् । उ॒शन् । अ॒ग्ने॒ । उ॒श॒सः । य॒क्षि॒ । दे॒वान् ॥यथा । होतः । मनुषः । देवताता । यज्ञेभिः । सूनो इति । सहसः । यजासि । एव । नः । अद्य । समना । समानान् । उशन् । अग्ने । उशसः । यक्षि । देवान् ॥yathā | hotaḥ | manuṣaḥ | deva-tātā | yajñebhiḥ | sūno iti | sahasaḥ | yajāsi | eva | naḥ | adya | samanā | samānān | uśan | agne | uśasaḥ | yakṣi | devān