Sukta 6.4
द्यावो न यस्य पनयन्त्यभ्वं भासांसि वस्ते सूर्यो न शुक्रः । वि य इनोत्यजरः पावकोऽश्नस्य चिच्छिश्नथत्पूर्व्याणि ॥
द्यावो॒ न यस्य॑ प॒नय॒न्त्यभ्वं॒ भासां॑सि वस्ते॒ सूर्यो॒ न शु॒क्रः । वि य इ॒नोत्य॒जर॑: पाव॒कोऽश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ॥
dyā́vo na yásya panáyanty ábhvaṃ bhā́sāṃsi vaste sū́ryo na śukráḥ | ví ya inóty ájaraḥ pāvakó 'śnásya cic chiśnathat pū́rvyāṇi ||
Like the heavens, they admire his vastness; he wears his splendors like the bright Sun. He, the unaging Purifier, drives them wide; even the ancient hardness he breaks apart.
द्यावः॑ । न । यस्य॑ । प॒नय॑न्ति । अभ्व॑म् । भासां॑सि । व॒स्ते॒ । सूर्यः॑ । न । शु॒क्रः । वि । यः । इ॒नोति॑ । अ॒जरः॑ । पा॒व॒कः । अश्न॑स्य । चि॒त् । शि॒श्न॒थ॒त् । पू॒र्व्याणि॑ ॥द्यावः । न । यस्य । पनयन्ति । अभ्वम् । भासांसि । वस्ते । सूर्यः । न । शुक्रः । वि । यः । इनोति । अजरः । पावकः । अश्नस्य । चित् । शिश्नथत् । पूर्व्याणि ॥dyāvaḥ | na | yasya | panayanti | abhvam | bhāsāṃsi | vaste | sūryaḥ | na | śukraḥ | vi | yaḥ | inoti | ajaraḥ | pāvakaḥ | aśnasya | cit | śiśnathat | pūrvyāṇi