Sukta 6.36
सत्रा मदासस्तव विश्वजन्याः सत्रा रायोऽध ये पार्थिवासः । सत्रा वाजानामभवो विभक्ता यद्देवेषु धारयथा असुर्यम् ॥
स॒त्रा मदा॑स॒स्तव॑ वि॒श्वज॑न्याः स॒त्रा रायोऽध॒ ये पार्थि॑वासः । स॒त्रा वाजा॑नामभवो विभ॒क्ता यद्दे॒वेषु॑ धा॒रय॑था असु॒र्य॑म् ॥
satrā́ madā́sas táva viśvájanyāḥ satrā́ rā́yo ádha yé pārthivā́saḥ | satrā́ vājā́nām abhavo vibhaktā́ yád devéṣu dhāráyathā asúryam ||
Ever are thy ecstasies universal; ever are the riches that come to those who stand upon the earth. Ever wast thou the distributor of plenitudes, when thou didst uphold among the gods the Asurya—lordly might of the Truth.
स॒त्रा । मदा॑सः । तव॑ । वि॒श्वऽज॑न्याः । स॒त्रा । रायः॑ । अध॑ । ये । पार्थि॑वासः । स॒त्रा । वाजा॑नाम् । अ॒भ॒वः॒ । वि॒ऽभ॒क्ता । यत् । दे॒वेषु॑ । धा॒रय॑थाः । असु॒र्य॑म् ॥सत्रा । मदासः । तव । विश्वजन्याः । सत्रा । रायः । अध । ये । पार्थिवासः । सत्रा । वाजानाम् । अभवः । विभक्ता । यत् । देवेषु । धारयथाः । असुर्यम् ॥satrā | madāsaḥ | tava | viśva-janyāḥ | satrā | rāyaḥ | adha | ye | pārthivāsaḥ | satrā | vājānām | abhavaḥ | vi-bhaktā | yat | deveṣu | dhārayathāḥ | asuryam