Sukta 6.35
स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पृक्षः । पीपिहीषः सुदुघामिन्द्र धेनुं भरद्वाजेषु सुरुचो रुरुच्याः ॥
स गोम॑घा जरि॒त्रे अश्व॑श्चन्द्रा॒ वाज॑श्रवसो॒ अधि॑ धेहि॒ पृक्ष॑: । पी॒पि॒हीष॑: सु॒दुघा॑मिन्द्र धे॒नुं भ॒रद्वा॑जेषु सु॒रुचो॑ रुरुच्याः ॥
sa gómaghā jaritré áśvaś-candrā vājáśravaso ádhi dhehi pṛ́kṣaḥ | pīpihī́ṣaḥ sudúghām indra dhénuṃ bharádvājeṣu surúco rurucyāḥ ||
O Indra, set in us—upon the praiser—thy luminous energies: the cow-force that brings rays of knowledge, the horse-force that bears shining impulsions, and the plenitude of victorious power. Make grow for us the richly yielding Cow of Light, and in the Bharadvāja-strivings let the bright splendours blaze forth.
सः । गोऽम॑घाः । ज॒रि॒त्रे । अश्व॑ऽचन्द्राः । वाज॑ऽश्रवसः । अधि॑ । धे॒हि॒ । पृक्षः॑ । पी॒पि॒हि । इषः॑ । सु॒ऽदुघा॑म् । इ॒न्द्र॒ । धे॒नुम् । भ॒रत्ऽवा॑जेषु । सु॒ऽरुचः॑ । रु॒रु॒च्याः॒ ॥सः । गोमघाः । जरित्रे । अश्वचन्द्राः । वाजश्रवसः । अधि । धेहि । पृक्षः । पीपिहि । इषः । सुदुघाम् । इन्द्र । धेनुम् । भरत्वाजेषु । सुरुचः । रुरुच्याः ॥saḥ | go--maghāḥ | jaritre | aśva-candrāḥ | vāja-śravasaḥ | adhi | dhehi | pṛkṣaḥ | pīpihi | iṣaḥ | su-dughām | indra | dhenum | bharat-vājeṣu | su-rucaḥ | rurucyāḥ